2026-05-06 05:23:17 by ambuda-bot
This page has not been fully proofread.
द्वितीयः प्रश्नः ।
२५६
ऋचो यजूंषि सामानि
यज्ञः क्षत्रं ब्रह्म च ॥ ६ ॥
किं बहुना ? अरा इव रथनाभौ श्रद्धादि नामान्तं सर्व
स्थितिकाले प्राणे एव प्रतिष्ठितम् । तथा ऋच: यजूंषि
सामानि इति विविधा मन्त्राः तत्साध्यश्च यज्ञः क्षत्रं च सर्वस्य.
पालयितृ ब्रह्म च यज्ञादिकर्मकर्तृत्वेऽधिकृतं च एष एव
प्राणः सर्वम् ॥
प्रजापतिश्चरसि गर्भे
त्वमेव प्रतिजायसे ।
तुभ्यं प्राण प्रजास्तित्वमा बलि हरन्ति
यः प्राणैः प्रतितिष्ठसि ॥ ७ ॥
"
किंच, य: प्रजापतिरपि स त्वमेव गर्भे चरसि पितुर्मा-
तुश्च प्रतिरूपः सन् प्रतिजायसे; प्रजापतित्वादेव प्रागेव सिद्धं
तव मातृपितृत्वम् ; सर्वदेहदेह्या कृतिच्छन्नः एकः प्राणः सर्वा-'
त्मासीत्यर्थः । तुभ्यं त्वदर्थाय इमाः मनुष्याद्याः प्रजास्तु
हे प्राण चक्षुरादिद्वारैः बलिं हरन्ति यः त्वं प्राणै: चक्षुरा-
दिभिः सह प्रतितिष्ठसि सर्वशरीरेषु, अतस्तुभ्यं बलिं