Proofing

This page has not been fully proofread.

२५४
 
प्रश्नोपनिषद्भाष्ये
 
.
 
मधुकरी: स्वराजानं मधुकरराजानम् उत्क्रामन्तं प्रति सर्वा
एव उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते
प्रतितिष्ठन्ति । यथायं दृष्टान्तः एवं वाङ्मनश्चक्षुः श्रोत्रं
चेत्यादयः ते उत्सृज्याश्रद्दधानतां बुड्ढा प्राणमाहात्म्यं प्रीताः
प्राणं स्तुन्वन्ति स्तुवन्ति
 
एषोऽग्निस्तपत्येष सूर्य
 
एष पर्जन्यो मघवानेष वायुः ।
एष पृथिवी रयिर्देवः
 
सदसच्चामृतं च यत् ॥ ५ ॥
 
कथम् ? एषः प्राणः अग्निः सन् तपति ज्वलति । तथा एष:
सूर्य: : सन् प्रकाशते । तथा एषः पर्जन्यः सन् वर्षति । किंच
मघवान् इन्द्रः सन् प्रजाः पालयति जिघांसत्यसुररक्षांसि ।
किंच, एषः वायुः आवहप्रवाहादिभेदः । किंच, एषः पृथिवी
रयिः देवः सर्वस्य जगतः सत् मूर्तम् असत् अमूर्त च अमृतं
च यत् देवानां स्थितिकारणम् ॥
 
अरा इव रथनाभौ
 
प्राणे सर्व प्रतिष्ठितम् ।