2026-05-06 05:23:17 by ambuda-bot
This page has not been fully proofread.
द्वितीयः प्रश्न. ।
२५३
विधारयामि इति उक्तवति च तस्मिन् ते अश्रद्दधानाः अप्र-
त्ययवन्तः बभूवुः- कथमेतदेवमिति ॥
-
सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मि-
नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते त
स्मिँश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते ।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं
सर्वा एवोत्क्रामन्ते तस्मिश्च प्रतिष्ठ-
माने सर्वा एव प्रातिष्ठन्त एवं वाङ्मन-
चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्व-
न्ति ॥ ४ ॥
स च प्राणः तेषामश्रद्दधानतामालक्ष्य अभिमानात्
उर्ध्वम् उत्क्रामत इव उत्क्रामतीव उत्क्रान्तवानिव स रोषान्निर-
पेक्षः । तस्मिन्नुत्क्रामति यद्वृत्तं तद्दृष्टान्तेन प्रत्यक्षीकरोति —
तस्मिन् उत्क्रामति सति अथ अनन्तरमेव इतरे सर्व एव
प्राणाश्चक्षुरादयः उत्क्रामन्ते उत्क्रामन्ति उच्चक्रमुः । तस्मिंश्च
प्राण प्रतिष्ठमाने तूष्णीं भवति अनुत्क्रामति सति, सर्व एव
प्रातिष्ठन्ते तूष्णीं व्यवस्थिता बभूवुः । तत् यथा लोके मक्षिकाः
'