2026-05-06 05:23:17 by ambuda-bot
This page has not been fully proofread.
२५२
प्रश्नोपनिषद्भाष्ये
द्वाणमवष्टभ्य विधारयामः ॥ २ ॥
एवं पृष्टवते तस्मै स ह उवाच - आकाशः ह वै एषः
देव: वायुः अग्निः आपः पृथिवी इत्येतानि पञ्च महाभूतानि
शरीरारम्भकाणि वाङ्मनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबु-
द्धीन्द्रियाणि च । कार्यलक्षणाः करणलक्षणाश्च ते देवा आत्मनो
माहात्म्यं प्रकाश्यं प्रकाश्याभिवदन्ति स्पर्धमाना अहं श्रेष्ठतायै ।
कथं वदन्ति ? वयमेतत् बाणं कार्यकरणसंघातम् अवष्टभ्य
प्रासादमिव स्तम्भादयः अविशिथिलीकृत्य विधारयामः
विस्पष्टुं धारयामः । मयैवैकेनायं संघातो प्रियत इत्येकैक-
स्याभिप्रायः ॥
तान्वरिष्ठः प्राण उवाच मा मोहमा -
ः
पद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैत-
द्वाणमवष्टभ्य विधारयामीति तेऽश्रद्दधा-
ना बभूवुः ॥ ३ ।
तान् एवमभिमानवतः वरिष्ठः मुख्यः प्राणः उवाच
उक्तवान्- मा मैवं मोहम् आपद्यथ अविवेकितयाभिमानं
-
मा कुरुत ; यस्मात् अहमेव एतद्वाणम् अवष्टभ्य विधारयामि
पञ्चधा आत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा