2026-05-06 05:23:16 by ambuda-bot
This page has not been fully proofread.
द्वितीयः प्रश्नः ॥
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ
भगवन्कत्येव देवाः प्रजां विधारयन्ते क-
तर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ
इति ॥ १ ॥
-
प्राणोऽत्ता प्रजापतिरित्युक्तम् । तस्य प्रजापतित्वमत्तृत्वं
चास्मिञ्शरीरेऽवधारयितव्यमित्ययं प्रश्न आरभ्यते । अथ
अनन्तरं ह किल एनं भार्गवः वैदर्भिः पप्रच्छ – हे भगवन्
कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते ।
कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानाम् एतत् प्रकाशनं स्वमा-
हात्म्यप्रख्यापनं प्रकाशयन्ते । कः असौ पुनः एषां वरिष्ठ:
प्रधान: कार्यकरणलक्षणानामिति ॥
तस्मै स होवाच । आकाशो ह वा एष
देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः
श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेत-