2026-05-06 05:23:16 by ambuda-bot
This page has not been fully proofread.
प्रथमः प्रश्नः ।
२४९
तत् तत्रैवं सति ये गृहस्था: । ह वै इति प्रसिद्धस्मरणार्थौ
निपातौ । तत् प्रजापतेर्व्रतं प्रजापतिव्रतम् ऋतौ भार्यागमनं
चरन्ति कुर्वन्ति, तेषां दृष्टं फलमिदम् । किम् ? ते मिथुनं पुत्रं
दुहितरं च उत्पादयन्ते । अदृष्टं च फलमिष्टापूर्तदत्तकारिणां
तेषामेव एषः यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणः येषां
तपः स्नातकव्रतादि ब्रह्मचर्यम् ऋतोरन्यत्र मैथुनासमा-
चरणं येषु च सत्यम् अनृतवर्जनं प्रतिष्ठितम् अव्यभिचा-
रितया वर्तते नित्यमेव ॥
तेषामसौ विरजो ब्रह्मलोको न येषु
जिह्ममनृतं न माया चेति ॥ १६ ॥
इति प्रथमः प्रश्नः ॥
यस्तु पुनरादित्योपलक्षित उत्तरायणः प्राणात्मभावो वि-
रजः शुद्धो न चन्द्रब्रह्मलोकवद्रजस्वलो वृद्धिक्षयादियुक्तः असौ
तेषाम्, केषामिति, उच्यते — यथा गृहस्थानामनेकविरुद्धसं-
व्यवहारप्रयोजनवत्त्वात् जिह्मं कौटिल्यं वक्रभावोऽवश्यंभावि
तथा न येषु जिह्मम्, यथा च गृहस्थानां क्रीडादिनिमित्तमनृ-
तमवर्जनीयं तथा न येषु तत् तथा माया गृहस्थानामिव न
येषु विद्यते । माया नाम बहिरन्यथात्मानं प्रकाश्यान्यथैव