Proofing

This page has not been fully proofread.

२४८
 
प्रश्नोपनिषद्भाष्ये
 
द्यापनयन्ति । के? ये दिवा अहनि रत्या रतिकारणभूतया
सह स्त्रिया संयुज्यन्ते मैथुनमाचरन्ति मूढाः । यत एवं
तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः । यत् सत्रौ सं-
युज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्तत्वात् रात्रौ
भार्यागमनं कर्तव्यमित्ययमपि प्रासङ्गिको विधिः ।
 
अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्त-
स्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥
 
प्रकृतं तूयते सोऽहोरात्रात्मकः प्रजापतिर्ब्रीहियवाद्यन्नात्म-
ना व्यवस्थितः एवं क्रमेण परिणम्य । तत् अन्नं वै प्रजापतिः ।
कथम् ? ततः तस्मात् ह वै रेतः नृबीजं तत्प्रजाकारणं तस्मात्
योषिति सिक्तात् इमाः मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते
यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रादित्य-
मिथुनादिक्रमेण अहोरात्रान्तेन अन्नरेतोद्वारेण इमाः प्रजाः
प्रजायन्त इति निर्णीतम् ॥
 
तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते
मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको
येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठि-
तम् ॥ १५ ॥