Proofing

This page has not been fully proofread.

.
 
प्रथमः प्रश्नः ।
 
२४७
 
यस्मिन्निदं प्रोतं विश्वं स एव प्रजापतिः संवत्सराख्यः
स्वावयवे मासे कृत्स्नः परिसमाप्यते । मासो वै प्रजापतिः
यथोक्तलक्षण एवं मिथुनात्मकः । तस्य मासात्मन: प्रजापते-
रेको भागः कृष्णपक्ष एव रयिः अन्नं चन्द्रमा: अपरो भाग:
शुक्लः शुक्लपक्षः प्राणः आदित्योऽत्ताग्निर्यस्माच्छुक्कूपक्षात्मानं
प्राणं सर्वमेव पश्यन्ति, तस्मात्प्राणदर्शिन एते ऋषयः कृष्ण-
पक्षेऽपीष्टं यागं कुर्वन्त: शुक्लपक्ष एव कुर्वन्ति । प्राणव्यति-
रेकेण कृष्णपश्नस्तैर्न दृश्यते यस्मात्; इतरे तु प्राणं न पश्य-
न्तीत्यदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति । इतरे इतरस्मि-
कृष्णपक्ष एव कुर्वन्ति शुक्ले. कुर्वन्तोऽपि ॥
 
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्रा-
णो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्द-
न्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव
तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥
 
सोऽपि मासात्मा प्रजापतिः स्वावयवे अहोरात्रे परिसमा-
प्यते । अहोरात्रो वै प्रजापतिः पूर्ववत् । तस्यापि अहरेव प्राण:
अत्ता अग्निः रात्रिरेव रयिः पूर्ववदेव । प्राणम् अहरात्मानं वै
एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छि-