2026-05-06 05:23:15 by ambuda-bot
This page has not been fully proofread.
२४६
प्रश्नोपनिषद्भाष्ये
अथेमे अन्य उ परे विचक्षणं
सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥
"
पञ्चपादं पञ्च ऋतवः पादा इवास्य संवत्सरात्मन
आदित्यस्य, तैर्ह्यसौ पादैरिव ऋतुभिरावर्तते । हेमन्त शिशिरावे-
कीकृत्येयं कल्पना । पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य ;
द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकरणं वा अव-
यविकरणमस्य द्वादशमासैः तं द्वादशाकृतिम् दिवः द्युलोकात्
परे ऊर्ध्वे अर्धे स्थाने तृतीयस्यां दिवीत्यर्थः ; पुरीषिणं पुरीष-
वन्तम् उदकवन्तम् आहुः कालविदः । अथ तमेवान्ये इमे उ
परे कालविदः विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपे
चक्रे संततगतिमति कालात्मनि षडरे षडृतुमति आहुः
सर्वमिदं जगत्कथयन्ति -- अर्पितम् अरा इव रथनाभौ
निविष्टमिति । यदि पञ्चपादो द्वादशाकृतिर्यदि वा सप्तचक्र:
षडर : सर्वथापि संवत्सरः कालात्मा प्रजापतिश्चन्द्रादित्य-
लक्षणो जगतः कारणम् ॥
मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव
रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल
इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥