Proofing

This page has not been fully proofread.

प्रथमः प्रश्नः ।
 
२४५
 
तत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष
निरोधः । तदेष श्लोकः ॥ १० ॥
 
अथ उत्तरेण अयनेन प्रजापतेरंशं प्राणमत्तारम् आदि-
त्यम् अभिजयन्ते 1 केन ? तपसा इन्द्रियजयेन । विशेषतो
ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्मविषयया आत्मानं
प्राणं सूर्य जगत: तस्थुषश्च अन्विष्य अहमस्मीति विदित्वा
आदित्यम् अभिजयन्ते अभिप्राप्नुवन्ति । एतद्वै आयतनं
सर्वप्राणानां सामान्यमायतनम् आश्रयः एतत् अमृतम् अवि-
नाशि अभयम् अत एव भयवर्जितम् न चन्द्रवत्यवृद्धि-
भयवत्; एतत् परायणं परा गतिर्विद्यावतां कर्मिणां च ज्ञान-
बताम् एतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिण इति
यस्मात् एषः अविदुषां निरोधः, आदित्याद्धि निरुद्धा अवि-
द्वांसः । नैते संवत्सरमादित्यमात्मानं प्राणमभिप्राप्नुवन्ति ।
स हि संवत्सरः कालात्मा अविदुषां निरोधः । तत् तत्रा-
स्मिन्नर्थे एषः श्लोकः मन्त्रः ॥
 
पञ्चपादं पितरं द्वादशाकृतिं
 
दिव आहुः परे अर्धे पुरीषिणम् ।