2026-05-06 05:23:15 by ambuda-bot
This page has not been fully proofread.
२४४
प्रश्नोपनिषद्भाष्ये
चन्द्रादित्यनिर्वर्त्यतिभ्यहोरात्रसमुदायो हि संवत्सरः तदन-
न्यत्वाद्रयिप्राणैतन्मिथुनात्मक एवेत्युच्यते । तत्कथम् ? तस्य
संवत्सरस्य प्रजापतेः अयने मार्गौ द्वौ दक्षिणं चोत्तरं च ।
प्रसिद्धे ह्यवने षण्मासलक्षणे, याभ्यां दक्षिणेनोत्तरेण च याति
सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोकान्विदधत् ।
कथम्? तत् तत्र च ब्राह्मणादिषु ये ह वै ऋषयः तदुपासत
इति । क्रियाविशेषणो द्वितीयस्तच्छब्दः । इष्टुं च पूर्त च
इष्टापूर्ते इत्यादि कृतमेवोपासते नाकृतं नित्यम्, ते चान्द्र-
मसमेव चन्द्रमसि भवं प्रजापतेर्मिथुनात्मकस्यांशं रयिमन्न-
भूतं लोक अभिजयन्ते कृतरूपत्वाच्चान्द्रमसस्य । ते एव च
कृतक्षयात् पुनरावर्तन्ते इमं लोकं हीनतरं वा विशन्तीति
ह्युक्तम् । यस्मादेवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिर्वर्त -
यन्ति चन्द्रमिष्टापूर्तकर्मणा प्रजाकामा: प्रजार्थिनः एते
ऋषयः स्वर्गद्रष्टारः गृहस्था:, तस्मात्स्वकृतमेव दक्षिणं दक्षि-
णायनोपलक्षितं चन्द्रं प्रतिपद्यन्ते । एष ह वै रयिः अन्नम्,
यः पितृयाणः पितृयाणोपलक्षितश्चन्द्रः ॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया
विद्ययात्मानमन्विष्यादित्यमभिजयन्ते ।
एतद्वै प्राणानामायतनमेतदमृतमभयमे-