Proofing

This page has not been fully proofread.

प्रथमः प्रश्नः ।
 
सहस्ररश्मिः शतधा वर्तमानः
 
२४३
 
प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥
 
विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्र-
ज्ञानं परायणं सर्वप्राणाश्रयं ज्योतिः सर्वप्राणिनां चक्षुर्भूतम्
एकम अद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्य
वेज्ञातवन्तो ब्रह्मविदः । कोऽसौ यं विज्ञातवन्तः ? सहस्र-
रश्मिः अनेकरश्मिः शतधा अनेकधा प्राणिभेदेन वर्तमानः
त्राणः प्रजानाम् उदयति एष: सूर्य: ॥
 
संवत्सरो वै प्रजापतिस्तस्यायने दक्षि-
णं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृत-
मित्युपासते ते चान्द्रमसमेव लोकमभि-
जयन्ते । त एव पुनरावर्तन्ते तस्मादेत
ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ।
एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥
 
यश्चासौ चन्द्रमा मूर्तिरन्नममूर्तिश्च प्राणोऽत्तादित्यस्तदे-
तदेकं मिथुनं सर्व कथं प्रजाः करिष्यत इति उच्यते तदेव
कालः संवत्सरो वै प्रजापतिः, तन्निर्वर्त्यत्वात्संवत्सरस्य ।
 
-