Proofing

This page has not been fully proofread.

२४२
 
प्रश्नोपनिषद्भाष्ये
 
अथ आदित्यः उदयन् उद्गच्छन् प्राणिनां चक्षुर्गोचरमाग-
च्छन् यत्प्राचीं दिशं स्वप्रकाशेन प्रविशतिः व्याप्नोति, तेन
स्वात्मव्यात्या सर्वान्तःस्थान् प्राणान् प्राच्यानन्नभूतान् रश्मि-
षु स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्प्राणिनः संनि-
धत्ते संनिवेशयति आत्मभूतान्करोतीत्यर्थः । तथैव यत्प्र-
विशति दक्षिणां यत्प्रतीचीं यदुदीचीम् अधः ऊर्ध्वं यत्प्रविशति
यच्च अन्तरा दिशः कोणदिशोऽवान्तरदिशः यच्चान्यत् सर्व
प्रकाशयति, तेन स्वप्रकाशव्याप्त्या सर्वान् सर्वदिक्स्थान्
प्राणान् रश्मिषु संनिधत्ते ॥
 
स एष वैश्वानरो विश्वरूपः प्राणो-
ऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ ७ ॥
 
स एष: अत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपः विश्वा-
त्मत्वाच्च प्राण: अग्निश्च स एवात्ता उदयते उद्गच्छति प्रत्यहं
सर्वा दिशः आत्मसात्कुर्वन् । तदेतत् उक्तं वस्तु ऋचा मन्त्रे-
णापि अभ्युक्तम् ॥
 
विश्वरूपं हरिणं जातवेदसं
 
परायणं ज्योतिरेकं तपन्तम् ।