2026-05-06 05:23:14 by ambuda-bot
This page has not been fully proofread.
प्रथमः प्रश्नः ।
२४१
आदित्यो ह वै प्राणो रयिरेव चन्द्रमा
रथिर्वा एतत्सर्वं यन्मूर्त चामूर्त च त-
स्मान्मूर्तिरेव रयिः ॥ ५ ॥
तत्र आदित्यः ह वै प्राण: अत्ता अग्निः । रयिरेव चन्द्रमाः ।
रयिरेवान्नं सोम एव । तदेतदेकमत्ता अग्निश्वान्नं च प्रजापति-
रेकं तु मिथुनम् ; गुणप्रधानकृतो भेदः । कथम् ? रयिर्वै अन्न-
मेव एतत् सर्वम् । किं तत् ? यत् मूर्ते च स्थूलं च अमूर्त च
सूक्ष्मं च । मूर्तामूर्ते अत्रन्नरूपे अपि रथिरेव । तस्मात् प्रवि-
भक्तादमूर्तात् यदन्यन्मूर्तरूपं मूर्तिः, सैव रथिः अन्नम् अमू-
र्तेन अत्रा अद्यमानत्वात् ॥
अथादित्य उदयन्यत्प्राचीं दिशं प्रवि-
शति तेन प्राच्यान्प्राणान्रश्मिषु संनि-
धत्ते । यद्दक्षिणां यत्प्रतीचीं यदुदीचीं
यो यदूर्ध्वं यदन्तरा दिशो यत्सर्व
प्रकाशयति तेन सर्वान्प्राणान् रश्मिषु सं-
निधत्ते ॥ ६ ॥
तथा अमूर्तोऽपि प्राणोऽत्ता सर्वमेव यच्चाद्यम् । कथम् ?
S. U. 16