2026-05-06 05:23:14 by ambuda-bot
This page has not been fully proofread.
२४०
प्रश्नोपनिषद्भाष्ये
अथ संवत्सरादूर्ध्वं कबन्धी कात्यायनः उपेत्य उपगम्य
पप्रच्छ पृष्टवान् हे भगवन्, कुतः कस्मात् ह वै
-
'
इमा: ब्रा-
ह्मणाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते इति । अपरविद्याकर्मणोः
समुचितयोर्यत्कार्य या गतिस्तद्वक्तव्यमिति तदर्थोऽयं प्रश्नः ॥
तस्मै स होवाच प्रजाकामो वै प्रजा-
पतिः स तपोऽतप्यत स तपस्तप्त्वा स
मिथुनमुत्पादयते रयिं च प्राणं चेत्येतौ
मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥
तस्मै एवं पृष्टवते स ह उवाच तदपाकरणायाह-
प्रजाकामः प्रजाः आत्मन: सिसृक्षुः वै प्रजापतिः सर्वा -
त्मा सन् जगत्स्रक्ष्यामीत्येवं विज्ञानवान्यथोक्तकारी तद्भा-
वभावितः कल्पादौ निर्वृत्तो हिरण्यगर्भः, सृज्यमानानां
प्रजानां स्थावरजङ्गमानां पतिः सन्, जन्मान्तरभावितं ज्ञानं
श्रुति प्रकाशितार्थविषयं तपः, अन्वालोचयत् अतप्यत । अथ
तु सः एवं तपः तप्त्वा श्रौतं ज्ञानमन्वालोच्य, सृष्टिसा-
धनभूतं मिथुनम् उत्पादयते मिथुनं द्वन्द्वमुत्पादितवान्
रथिं च सोममन्नं प्राणं च अग्निमत्तारम् इत्येतौ अग्नीषोमौ
अन्नभूतौ मे मम बहुधा अनेकधा प्रजाः करिष्यतः इति
एवं संचिन्त्य अण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसावकल्पयत् ॥