Proofing

This page has not been fully proofread.

प्रथमः प्रश्नः ।
 
२३९
 
समित्पाणयः समिद्धारगृहीतहस्ताः सन्तः, भगवन्तं पूजावन्तं
पिप्पलादमाचार्यम् उपसन्नाः उपजग्मुः ॥
 
तान्ह स ऋषिरुवाच भूय एव तपसा
ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्यथ
यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः
सर्व ह वो वक्ष्याम इति ॥ २ ॥
 
तान् एवमुपगतान् सः ह किल ऋषिः उवाच भूयः पुन-
रेव यद्यपि यूयं पूर्वं तपस्विन एव, तथापीह तपसा इन्द्रिय-
संयमेन विशेषतो ब्रह्मचर्येण श्रद्धया च आस्तिक्यबुद्धया
आदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग् गुरुशुश्रूषापराः
सन्तो वत्स्यथ । ततः यथाकामं यो यस्य कामस्तमन-
तिक्रम्य यद्विषये यस्य जिज्ञासा तद्विषयान् प्रश्नान् पृच्छत ।
यदि तद्युष्मत्पृष्टं विज्ञास्यामः । अनुद्धतत्वप्रदर्शनार्थो यदि-
शब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते सर्व ह
व: पृष्टार्थं वक्ष्याम इति ॥
 
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ
भगवन्कुतो ह वा इमाः प्रजाः प्रजायन्त
इति ॥ ३ ॥
 
वो