2026-05-06 05:23:13 by ambuda-bot
This page has not been fully proofread.
२३८
प्रश्नोपनिषद्भाष्ये
सुकेशा च भारद्वाजः शैब्यश्च सत्य-
कामः सौर्यायणी च गार्ग्यः कौसल्यश्चा-
श्वलायनो भार्गवो वैदर्भिः कबन्धी का-
त्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं
ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्य-
तीति ते ह समित्पाणयो भगवन्तं पि-
प्पलादमुपसन्नाः ॥ १ ॥
सुकेशा च नामतः, भरद्वाजस्यापत्यं भारद्वाजः ।
शैब्यश्च शिबेरपत्यं शैब्यः, सत्यकामो नामतः । सौर्यायणी
सूर्यस्यापत्यं सौर्यः, तस्यापत्यं सौर्यायणि:; छान्दसं सौर्याय-
णीति ; गार्ग्य: गर्गगोत्रोत्पन्नः । कौसल्यश्च नामतः, अश्वल-
स्यापत्यमाश्वलायनः । भार्गवः भृगोर्गोवापत्यं भार्गवः, वैदर्भिः
विदर्भेषु भवः । कबन्धी नामतः, कत्यस्यापत्यं कात्यायनः; वि-
यमानः प्रपितामहो यस्य सः; युवप्रत्ययः । ते ह एते ब्रह्मपराः
अपरं ब्रह्म परत्वेन गताः, तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः, परं
ब्रह्म अन्वेषमाणाः किं तत् यन्नित्यं विज्ञेयमिति तत्प्रात्यर्थं
यथाकामं यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तः, तदधिगमाय
एष ह वै तत्सर्वं वक्ष्यतीति आचार्यमुपजग्मुः । कथम् ?
ह