2026-05-06 05:23:12 by ambuda-bot
This page has not been fully proofread.
षष्ठी वल्ली ।
२३१
अथ शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपा-
दननिमित्तदोषप्रशमनार्थेयं शान्तिरुच्यते-- सह नौ आवाम्
अवतु पालयतु विद्यास्वरूपप्रकाशनेन । कः ? स एव परमेश्वर:
उपनिषत्प्रकाशितः । किंच, सह नौ भुनक्तु तत्फलप्रकाशनेन
नौ पालयतु । सहैव आवां विद्याकृतं वीर्य सामर्थ्यं करवावहै
निष्पादयावहै । किंच, तेजखिनौ तेजस्विनोरावयोः यत्
अधीतं तत्स्वधीतमस्तु । अथवा, तेजस्वि नौ आवाभ्यां यत् अ-
धीतं तदतीव तेजस्वि वीर्यवदस्त्वित्यर्थः । मा विद्विषावहै
शिष्याचार्यावन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनि-
मित्तं द्वेषं मा करवावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति
विर्वचनं सर्वदोषोपशमनार्थम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
काठकोपनिषद्भाष्यम्
संपूर्णम् ॥