Proofing

This page has not been fully proofread.

२३०
 
कठकोपनिषद्भाष्ये
 
ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु-
रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८ ॥
 
विद्यास्तुत्यर्थोऽयमाख्यायिकार्थोपसंहारः अधुनोच्यते-
मृत्युप्रोक्ताम् एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं समस्तं
सोपकरणं सफलमित्येतत् । नचिकेताः अथ वरप्रदाना-
न्मृत्योः लब्ध्वा प्राप्येत्यर्थः । किम् ? ब्रह्म प्राप्तोऽभूत् मुक्तो-
ऽभवदित्यर्थः । कथम् ? विद्याप्रात्या विरजः विगतरजा: विग-
तधर्माधर्मः विमृत्युः विगतकामाविद्यश्च सन् पूर्वमित्यर्थः । न
केवलं नचिकेता एव, अन्योऽपि य एवं नचिकेतोवदात्मवित्
अध्यात्ममेव निरुपचरितं प्रत्यक्स्वरूपं प्राप्यतत्त्वमेवेत्यभि-
प्रायः । नान्यद्रूपमप्रत्यग्रूपम् । तदेवमध्यात्मम् एवम् उक्तेन
प्रकारेण वेद विजानातीति एवंवित्, सोऽपि विरजाः सन्
ब्रह्म प्राप्य विमृत्युर्भवतीति वाक्यशेषः ॥
 
सह नाववतु । सह नौ भुनक्तु । सह
वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा
विद्विषावहै ॥ १९ ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
इति षष्ठी वल्ली ॥