2026-05-06 05:23:11 by ambuda-bot
This page has not been fully proofread.
षष्ठी वल्ली ।
२२९
संसारप्रतिपत्त्यर्था एव भवन्तीत्यर्थः ॥
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये संनिविष्टः ।
तं स्वाच्छरीरात्प्रवृहे-
न्मुञ्जादिवेषीकां धैर्येण ।
तं विद्याच्छुक्रममृतं
तं विद्याच्छुक्रममृतमिति ॥ १७ ॥
-
इदानीं सर्ववल्ल्यर्थोपसंहारार्थमाह — अङ्गुष्ठमात्रः पुरुषः
अन्तरात्मा सदा जनानां संबन्धिनि हृदये संनिविष्टः यथा-
व्याख्यातः; तं स्वात् आत्मीयात् शरीरात् प्रवृहत् उद्यच्छेत्
निष्कर्षेत् पृथक्कुर्यादित्यर्थः । किमिवेति, उच्यते —— मुखादिवे-
षीकाम अन्तःस्थां धैर्येण अप्रमादेन । तं शरीरान्निष्कृष्टं
चिन्मात्रं विद्यात् विजानीयात् शुक्रं शुद्धम अमृतं यथोक्तं
ब्रह्मेति । द्विर्वचनमुपनिषत्परिसमाप्त्यर्थम् इतिशब्दश्च ॥
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा
विद्यामेतां योगविधिं च कृत्स्नम् ।