Proofing

This page has not been fully proofread.

२२८
 
कठोपनिषद्भाष्ये
 
तयोर्ध्वमायन्नमृतत्वमेति
 
विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६ ॥
 
निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ता-
विद्यादिग्रन्थेः जीवत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यते,
' अत्र ब्रह्म समश्नुते' इत्युक्तत्वात् ' नं तस्य प्राणा उत्क्रामन्ति
ब्रह्मैव सन्ब्रह्माप्येति' इति श्रुत्यन्तराच्च । ये पुनर्मन्दब्रह्मविदो
विद्यान्तरशीलिनश्च ब्रह्मलोकभाज: ये च तद्विपरीता: संसार-
भाज:, तेषामेष गतिविशेष उच्यते प्रकृतोत्कृष्टब्रह्मविद्या फल-
स्तुतये । किंचान्यत्, अग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश्च
फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः । तत्र——
शतं च
शतसंख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृदयाद्विनि:-
सृताः नाड्यः सिराः; तासां मध्ये मूर्धानं भित्त्वा अभिनि:-
सृता निर्गता एका सुषुम्ना नाम । तया अन्तकाले हृदये
आत्मानं वशीकृत्य योजयेत् । तया नाड्या ऊर्ध्वम् उपरि
आयन् गच्छन् आदित्यद्वारेण अमृतत्वम् अमरणधर्मत्वमा-
पेक्षिकम् —'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ' इति
स्मृते:-- ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वमेति
भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान् । विष्वङ् नाना-
गतयः अन्या नाड्यः उत्क्रमणे उत्क्रमणनिमित्तं भवन्ति