2026-05-06 05:23:11 by ambuda-bot
This page has not been fully proofread.
षष्ठी वल्ली ।
२२७
गमनप्रयोजकस्य मृत्योर्विनाशाद्गमनानुपपत्तेः । अत्र इहैव
प्रदीपनिर्वाणवत्सर्वबन्धनोपशमात् ब्रह्म समश्नुते ब्रह्मैव
भवतीत्यर्थः ॥
यदा सर्वे प्रभिद्यन्ते
हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भव-
त्येतावद्ध्यनुशासनम् ॥ १५ ॥
"
कदा पुनः कामानां मूलतो विनाश इति उच्यते यदा
सर्वे प्रभिद्यन्ते भेदमुपयान्ति विनश्यन्ति हृदयस्य बुद्धेरिह
जीवत एव ग्रन्थयो ग्रन्थिवद्दृढबन्धनरूपा अविद्याप्रत्यया
इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाहमि -
त्येवमादिलक्षणा: तद्विपरीतात् ब्रह्मात्मप्रत्ययोपजनात् ब्रह्म-
वाहमस्म्यसंसारीति विनष्टेष्वविद्याग्रन्थिषु तन्निमित्ता: कामा
मूलतो विनश्यन्ति । अथ मर्त्योऽमृतो भवति एतावद्धि एता -
वदेवैतावन्मात्रं नाधिकमस्तीत्याशङ्का कर्तव्या । अनुशासनम्
अनुशिष्टि: उपदेश: सर्ववेदान्तानामिति वाक्यशेषः ॥
शतं चैका च हृदयस्य नाड्य-
स्तासां मूर्धानमभिनिःसृतैका ।