Proofing

This page has not been fully proofread.

२२६
 
-
 
काठकोपनिषद्भाष्ये
 
स्वभावो भवति । तेन च रूपेणात्मोपलब्धव्य इत्यनुवर्तते ।
तत्राप्युभयोः सोपाधिकनिरुपाधिकयोरस्तित्वतत्वभावयोः-
निर्धारणार्था षष्ठी पूर्वमस्तीत्येवोपलब्धस्यात्मनः सत्कार्यो-
पाधिकृतास्तित्वप्रत्ययेनोपलब्धस्येत्यर्थः । पश्चात्प्रत्यस्तमितस-
वोपाधिरूप आत्मनः तत्त्वभावः विदिताविदिताभ्यामन्योऽद्व-
यस्वभावः नेति नेतीत्यस्थूलमनण्वस्त्रमदृश्ये ऽनात्म्ये निरु-
क्तेऽनिलयन इत्यादिश्रुतिनिर्दिष्टः प्रसीदति अभिमुखीभवति ।
आत्मप्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ॥
यदा सर्वे प्रमुच्यन्ते
 
कामा येस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भव-
 
त्यत्र ब्रह्म समश्नुते ॥ १४ ॥
 
एवं परमार्थात्मदर्शिनो यदा यस्मिन्काले सर्वे कामा:
कामयितव्यस्यान्यस्याभावात् प्रमुच्यन्ते विशीर्यन्ते ; ये
अस्य प्राक्प्रतिबोधाद्विदुषो हृदि बुद्धौ श्रिताः आश्रिताः ;
बुद्धिर्हि कामानामाश्रयः नात्मा, 'कामः संकल्प:' इत्यादिश्रु-
-त्यन्तराश्च ; अथ तदा मर्त्यः प्राक्प्रबोधादासीत् स प्रबोधोत्त-
रकालमविद्याकामकर्मलक्षणस्य मृत्योर्विनाशात् अमृतो भवति