2026-05-06 05:23:10 by ambuda-bot
This page has not been fully proofread.
षष्ठी वल्ली ।
२२५
सत्प्रत्ययगर्भेव विलीयते । बुद्धिर्हि नः प्रमाणं सदसतोर्याथा-
त्म्यावगमे । मूलं चेज्जगतो न स्यादसदन्वितमेवेदं कार्यमस-
दसदित्येव गृह्येत, न त्वेतदस्ति ; सत्सदित्येव तु गृह्यते ; यथा
मृदादिकार्य घटादि मृदाद्यन्वितम् । तस्माज्जगतो मूलमात्मा
अस्तीत्येवोपलब्धव्यः । कस्मात् ? अस्तीति ब्रुवत: अस्तित्ववा-
दिन आगमार्थानुसारिणः श्रद्दधानादन्यत्र नास्तिकवादिनि ना-
स्ति जगतो
मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रवि-
लीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद्ब्रह्म तत्त्वत
उपलभ्यते न कथंचनोपलभ्यत इत्यर्थः ॥
अस्तीत्येवोपलब्धव्य-
स्तत्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य
तत्त्वभावः प्रसीदति ॥ १३ ॥
तस्मादपोह्यासद्वादिपक्षमासुरम् अस्तीत्येव आत्मा उप-
लब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः । यदा तु तद्रहितोऽविक्रिय
आत्मा कार्ये च कारणव्यतिरेकेण नास्ति 'वाचारम्भणं वि-
कारो नामधेयं मृत्तिकेत्येव सत्यम्' इति श्रुतेः, तदा तस्य निरु-
पाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्यात्मनस्त-
S. U. 15