Proofing

This page has not been fully proofread.

२२४
 
काठकोपनिषद्भाष्ये
 
विधीयते । अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीमेव
निरङ्कुशमप्रमत्तत्वमित्यतोऽभिधीयते अप्रमत्तस्तदा भवतीति ।
कुत: ? योगो हि यस्मात् प्रभवाप्ययौ उपजनापायधर्मक इत्य-
र्थः। अत: अपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्राय: ॥
 
नैव वाचा न मनसा
 
प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र
कथं तदुपलभ्यते ॥ १२ ॥
 
बुद्धयादिचेष्टाविषयं चेद्रह्म इदं तदिति विशेषतो गृह्येत,.
बुद्ध्याद्युपरमे च ग्रहणकारणाभावादनुपलभ्यमानं नास्त्येव
ब्रह्म । यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चा-
सदिति । अतश्चानर्थको योगोऽनुपलभ्यमानत्वाद्वा नास्तीत्युप-
लब्धव्यं ब्रह्मेत्येवं प्राप्ते, इदमुच्यते । सत्यम् । नैव वाचा न मनसा
न चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यते इत्यर्थः । तथापि
सर्वविशेषरहितोऽपि जगतो मूलमित्यवगतत्वादस्त्येव, कार्य-
प्रविलापनस्यास्तित्वनिष्ठत्वात् । तथा हीदं कार्य सौक्ष्म्यतार-
तम्यपारम्पर्येणानुगम्यमानं सद्बुद्धिनिष्ठ । मेवावगमयति । यदा-
पि. विषय प्रविलापनेन प्रविलाप्यमाना बुद्धि:, तदापि सा