Proofing

This page has not been fully proofread.

षष्ठी वल्ली ।
 
२२३
 
साहृन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते-
यदा यस्मिन्काले स्वविषयेभ्यो निवर्तितानि आत्मन्येव पञ्च ज्ञा-
नानि - ज्ञानार्थत्वाच्छ्रोत्रादीनीन्द्रियाणि ज्ञानान्युच्यन्ते-
अवतिष्ठन्ते सह मनसा यदनुगतानि तेन संकल्पादिव्यावृत्ते-
नान्त:करणेन । बुद्धिश्च अध्यवसायलक्षणा न विचेष्टति स्व-
व्यापारेषु न विचेष्टते न व्याप्रियते, तामाहुः परमां गतिम् ॥
 
,
 
तां योगमिति मन्यन्ते
स्थिरामिन्द्रियधारणाम् ।
 
अप्रमत्तस्तदा भवति
 
योगो हि प्रभवाप्ययौ ॥ ११ ॥
 
ताम् ईदृशीं तदवस्थां योगमिति मन्यन्ते वियोगमेव सन्त-
म् । सर्वानर्थसंयोगवियोगलक्षणा हीयमवस्था योगिनः । ए-
तस्यां ह्यवस्थायाम् अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ आत्मा
स्थिरामिन्द्रियधारणां स्थिरामचलामिन्द्रियधारणां बाह्यान्त:-
करणानां धारणमित्यर्थः । अप्रमत्तः प्रमादवर्जितः समाधानं
प्रति नित्यं यत्नवान् तदा तस्मिन्काले, यदैव प्रवृत्तयोगो
भवतीति सामर्थ्यादवगम्यते । न हि बुद्धयादिचेष्टाभावे प्र-
मादसंभवोऽस्ति । तस्मात्प्रागेव बुद्ध्यादिचेष्ट्रोपरमात् अप्रमादो