Proofing

This page has not been fully proofread.

२२२
 
काठकोपनिषद्भाष्ये
 
न संदृशे तिष्ठति रूपमस्य
 
न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिक्लृप्तो
 
"
 
य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥
कथं तर्हि तस्य अलिङ्गस्य दर्शनमुपपद्यत इति, उच्यते--
न संदृशे संदर्शनविषये न तिष्ठति प्रत्यगात्मनः अस्य रूपम् ।
अतः न चक्षुषा सर्वेन्द्रियेण चक्षुर्प्रहणस्योपलक्षणार्थत्वात्,
पश्यति नोपलभते कश्चन कश्चिदपि एनं प्रकृतमात्मानम् ।
कथं तर्हि तं पश्येदिति, उच्यते-- हृदा हृत्स्थया बुद्धया,
मनीषा मनसः संकल्पादिरूपस्य ईष्टे नियन्तृत्वेनेति मन
तया मनीषा विकल्पवर्जितया बुद्धया । मनसा मनन-
रूपेण सम्यग्दर्शनेन अभिक्लमः अभिसमर्थित: अभिप्र-
काशित इत्येतत् । आत्मा ज्ञातुं शक्य इति वाक्यशेषः ।
तमात्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति ॥
 
यदा पञ्चावतिष्ठन्ते
 
ज्ञानानि मनसा सह ।
 
बुद्धिश्व न विचेष्टति
 
तामाहुः परमां गतिम् ॥ १० ॥