Proofing

This page has not been fully proofread.

२२०
 
काठकोपनिषद्भाष्ये
 
विक्तं ब्रह्मलोक एवैकस्मिन् । स च दुष्प्राप:, अत्यन्तविशि-
म्रुकर्मज्ञानसाध्यत्वात् । तस्मादात्मदर्शनाय इहैव यत्नः कर्त-
व्य इत्यभिप्रायः ॥
 
इन्द्रियाणां पृथग्भाव-
मुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां
 
मत्वा धीरो न शोचति ॥ ६ ॥
 
कथमसौ बोद्धव्यः, किं वा तदवबोधे प्रयोजनमिति,
उच्यते-- इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन
स्वकारणेभ्य आकाशादिभ्यः प्रथगुत्पद्यमानानाम् अत्यन्त -
विशुद्धात्केवलाच्चिन्मात्रात्मस्वरूपात् पृथग्भावं स्वभावविलक्ष-
णात्मकताम्, तथा तेषामेवेन्द्रियाणाम् उदयास्तमयौ च उत्प-
त्तिप्रलयौ जाग्रत्स्वप्नावस्थाप्रतिपत्त्या नात्मन इति मत्वा ज्ञा-
त्वा विवेकतो धीरः धीमान् न शोचति, आत्मनो नित्यैकस्व-
भावत्वाव्यभिचाराच्छोककारणत्वानुपपत्तेः । तथा च श्रुत्य-
न्तरम् ' तरति शोकमात्मवित्' इति ॥
 
इन्द्रियेभ्यः परं मनो
 
मनसः सत्त्वमुत्तमम् ।