Proofing

This page has not been fully proofread.

षष्ठी वल्ली ।
 
२१९
 
9
 
लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति
शरीरं गृह्णातीत्यर्थः । तस्माच्छरीरविस्रंसनात्प्रागात्मावबोधाय
यत्र आस्थेयः यस्मादिहैवात्मनो दर्शनमादर्शस्थस्यैव मुखय
स्पष्टमुपपद्यते, न लोकान्तरेषु ब्रह्मलोकादन्यत्र । स च
 
दुष्प्रापः ॥
 
यथादर्शे तथात्मनि
 
यथा स्वप्ने तथा पितृलोके ।
 
यथाप्सु परीव ददृशे
 
तथा गन्धर्वलोके च्छायातपयोरिव
 
ब्रह्मलोके ॥ ५ ॥
 
कथमिति, उच्यते - यथा आदर्शे प्रतिबिम्बभूतमात्मानं प-
श्यति लोक : अत्यन्तविविक्तम्, तथा इह आत्मनि स्वबुद्धावा-
दर्शवन्निर्मलीभूतायां विविक्तमात्मनो दर्शनं भवतीत्यर्थः । यथा
स्वप्ने अविविक्तं जाग्रद्वासनोद्भूतम्, तथा पितृलोके अविविक्त-
मेव दर्शनमात्मनः कर्मफलोपभोगासक्तत्वात् । यथा च अप्सु
अविविक्तावयवमात्मस्वरूपं परीव ददृशे परिदृश्यत इव, तथा
गन्धर्वलोके अविविक्तमेव दर्शनमात्मनः । एवं च लोकान्तरे-
ष्वपि शास्त्रप्रामाण्यादवगम्यते । छायातपयोरिव अत्यन्तवि-