2026-05-06 05:23:09 by ambuda-bot
This page has not been fully proofread.
२१८
काठकोपनिषद्भाष्ये
भयादस्याग्निस्तपति
भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च
मृत्युर्धावति पञ्चमः ॥ ३॥
कथं तद्भयाज्जगद्वर्तत इति, आह— भयात् भीत्या अस्य
परमेश्वरस्य अग्निः तपति भयात्तपति सूर्यः, भयादिन्द्रश्व
वायुश्च मृत्युर्धावति पञ्चमः । न हि, ईश्वराणां लोकपालानां
समर्थानां सतां नियन्ता चेद्वस्रोद्यतकरवन्न स्यात्,
मिभयभीतानामिव भृत्यानां नियता प्रवृत्तिरुपपद्यते ॥
इह चेदशकद्वोद्धुं
प्राक्शरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु
शरीरत्वाय कल्पते ॥ ४ ॥
स्वा-
तच्च इह जीवन्नेव चेत् यद्यशकत् शक्तः सन् जानातीत्ये-
तत्, भयकारणं ब्रह्म बोद्धुम् अवगन्तुम्, प्राक् पूर्वे शरीरस्थ
विस्रसः अवस्रंसनात्पतनात् संसारबन्धनाद्विमुच्यते । न चेद-
शकद्बोद्धुम् ततः अनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्ट-
व्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकाः तेषु सर्गेषु,