Proofing

This page has not been fully proofread.

षष्ठी वल्ली ।
 
२१७
 
श्रिताः सर्वे समस्ताः उत्पत्तिस्थितिलयेषु । तदु तद्ब्रह्म नात्येति
नातिवर्तते मृदादिकमिव घटादिकार्य कश्चन कश्चिदपि वि-
कारः । एतद्वै तत् ॥
 
यदिदं किंच जगत्सर्व
 
प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं
 
य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥
 
यद्विज्ञानादमृता भवन्तीत्युच्यते, जगतो मूलं तदेव नास्ति
ब्रह्म ; असत एवेदं निःसृतमिति, तन्न — यदिदं किंच यत्किं -
 
-
 
चेदं जगत्सर्वं प्राणे परस्मिन्ब्रह्मणि सति एजति कम्पते, तत
एव निःसृतं निर्गतं सत् प्रचलति नियमेन चेष्टते । यदेवं जग-
दुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयम्, महच्च तत् भयं च बिभे-
त्यस्मादिति महद्भयम्, वज्रमुद्यतम् उद्यतमिव वज्रम् ; यथा
वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन
तच्छासने वर्तन्ते, तथेदं चन्द्रादित्यप्रहनक्षत्रतारकादिलक्षणं
जगत्सेश्वरं नियमेन क्षणमप्यविश्रान्तं वर्तत इत्युक्तं भवति ।
ये एतत् विदुः स्वात्मप्रवृत्तिसाक्षिभूतमेकं ब्रह्म अमृता : अम-
रणधर्माण: ते भवन्ति ॥
 
7