2026-05-06 05:23:09 by ambuda-bot
This page has not been fully proofread.
२१६
काठकोपनिषद्भाष्ये
तेदतत्त्वः वेदान्तनिर्धारितपरब्रह्ममूलसारः अविद्याकाम-
कर्माव्यक्तबीजप्रभवः अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहि-
रण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धः तत्तत्तृष्णाजलासेकोद्भू-
तदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदे-
शपलाशः यज्ञदानतपआद्यनेकक्रियासुपुष्पः सुखदुःखवेद-
नानेकरसः प्राण्युपजीव्यानन्तफलः तत्तृष्णासलिलाव सेकप्ररू-
ढजटिलीकृतदृढबद्धमूलः सत्यनामादिसप्तलोक ब्रह्मादिभूतप-
क्षिकृतनीडः प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्र-
क्ष्वेलितास्फोटितहसितानुष्टरुदितहाहामुञ्चमुश्चेत्याद्यनेकशब्द-
कृततुमुलीभूतमहारवः वेदान्तविहित ब्रह्मात्मदर्शनासङ्गशस्त्रकृ-
तोच्छेदः एषः संसारवृक्षः अश्वत्थः अश्वत्थवत्कामकर्मवातेरि-
तनित्यप्रचलितस्वभावः । स्वर्गनरकतिर्यक्प्रेतादिभिः शखाभिः
अवाक्शाखः, अवाञ्च: शाखा यस्य सः, सनातनः अनादि-
त्वाश्चिरप्रवृत्तः । यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं शुभ्रं
शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिः स्वभावं तदेव ब्रह्म सर्व-
महत्त्वात् । तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते
सत्यत्वात् । वाचारम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्य-
म् । तस्मिन् परमार्थसत्ये ब्रह्मणि लोका: गन्धर्वनगरमरी-
न्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिता: आ-