2026-05-06 05:23:08 by ambuda-bot
This page has not been fully proofread.
षष्ठी वल्ली ।
ऊर्ध्वमूलोऽवाक्शाख
एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म
तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे
तदु नात्येति कश्चन । एतद्वै तत् ॥ १ ॥
।
1
तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके,
एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्रह्मण: स्वरूपावदि-
धारयिषया इयं षष्ठी वल्ली आरभ्यते । ऊर्ध्वमूलः ऊर्ध्वं मूलं
यत् तद्विष्णोः परमं पदमस्येति सोऽयमव्यक्तादिस्थावरान्तः
संसारवृक्षः ऊर्ध्वमूलः । वृक्षश्च ब्रश्वनात् विनश्वरत्वात् ।
अविच्छिन्नजन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणम-
न्यथास्वभावः मायामरीच्युदक गन्धर्बनगरादिवदृष्टनष्टस्वरूप-
त्वादवसाने च वृक्षवदभावात्मकः कदलीस्तम्भवन्निःसार: अ-
नेकशतपाषण्डबुद्धिविकल्पास्पदः तत्त्वविजिज्ञासुभिरनिर्धारि-