Proofing

This page has not been fully proofread.

२१४
 
काठकोपनिषद्भाष्ये
 
संयोगादग्निं दहन्तमनुदहति न स्वतः, तद्वत् । तस्यैव भासा
दीप्त्या सर्वमिदं सूर्यादि विभाति । यत् एवं तदेव ब्रह्म
भाति च विभाति च । कार्यगतेन विविधेन भासा तस्य
ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं
भासनमन्यस्य कर्तुं शक्यम्, घटादीनामन्यावभासकत्वाद-
र्शनात् भारूपाणां च आदित्यादीनां तद्दर्शनात् ॥
 
इति पञ्चमवल्लीभाष्यम् ॥