Proofing

This page has not been fully proofread.

वाङ् मे मनसि प्रतिष्ठिता । मनो मे
वाचि प्रतिष्ठितम् । आविरावीर्म एधि ।
वेदस्य म आणीस्थः । श्रुतं मे मा प्रहा
सीः । अनेनाधीतेन । अहोरात्रान्संदधा-
मि । ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद्वक्तारमवतु । अवतु
माम् । अवतु वक्तारमवतु वक्तारम् ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
भद्रं नोऽपि वातय मनः ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥