Proofing

This page has not been fully proofread.

अहं वृक्षस्य रेखििा । कीर्तिः पृष्ठं
गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृ-
तमस्मि । द्रविण सवर्चसम् । सुमेधा
अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुव-
 
चनम् ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं
पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा-
सस्तनूभिः । व्यशेम देवहितं यदा-
युः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्व-
स्ति नः पूषा विश्ववेदाः । स्वस्ति न-
स्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृह-
स्पतिर्दधातु ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥