2026-05-06 05:22:15 by ambuda-bot
This page has not been fully proofread.
शं नो मित्रः शं वरुणः । शं नो
भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे ।
नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतम-
वादिषम् । सत्यमवादिषम् । तन्मामा-
वीत् । तद्वक्तारमावीत् । आवीन्माम् ।
आवीद्वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे ।
नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतम-
वादिषम् । सत्यमवादिषम् । तन्मामा-
वीत् । तद्वक्तारमावीत् । आवीन्माम् ।
आवीद्वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥