2026-05-06 05:22:15 by ambuda-bot
This page has not been fully proofread.
सू. २२.]
चतुर्थोऽध्यायः ।
८६१
देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति '
'तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति' इत्यादि-
भेदव्यपदेशलिङ्गेभ्यः ॥
ननु एवं सति सातिशयत्वादन्तवत्त्वम् ऐश्वर्यस्य स्यात् ;
ततश्च एषामावृत्ति: प्रसज्येत - इत्यतः उत्तरं भगवान्बादरा-
यण आचार्य: पठति--
अनावृत्तिः शब्दादनावृत्तिः
शब्दात् ॥ २२ ॥
-
,
नाडी रश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये
ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च ह वै ण्य-
वार्णव ब्रह्मलोके तृतीयस्यामितो दिवि, यस्मिन्नैरं मदीयं
सरः, यस्मिन्नश्वत्थः सोमसवन:, यस्मिन्नपराजिता पूर्ब्रह्मण:,
यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म, यश्चानेकधा मन्त्रार्थवा-
दादिप्रदेशेषु प्रपञ्च्यते - ते तं प्राप्य न चन्द्रलोकादिव भु-
क्तभोगा आवर्तन्ते ; कुतः ? ' तयोर्ध्वमायन्नमृतत्वमेति' ' तेषां
न पुनरावृत्ति: ' ' एतेन प्रतिपद्यमाना इमं मानवमावर्त ना-
वर्तन्ते' 'ब्रह्मलोकमभिसंपद्यन्ते'' न च पुनरावर्तते ' इत्यादि-
शब्देभ्यः । अन्तवत्त्वेऽपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा
वर्णितम् - 'कार्यात्यये तदध्यक्षेण सहातः परम्' इत्यत्र ;