Proofing

This page has not been fully proofread.

सू. १९.]
 
चतुर्थोऽध्यायः ।
 
८५९
 
मनस्कत्वादेव च एतेषामनैकमत्ये, कस्यचित्स्थित्यभिप्राय: क-
स्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित्स्यात्; अथ
कस्यचित् संकल्पमनु अन्यस्य संकल्प इत्यविरोधः समर्थ्येत,
ततः परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते ॥
 
प्रत्यक्षोपदेशादिति चेन्नाधिकारिक-
मण्डलस्थोक्तेः ॥ १८ ॥
 
अथ यदुक्तम्- 'आप्नोति स्वाराज्यम्' इत्यादिप्रत्यक्षो-
पदेशात् निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति तत्परिहर्त -
व्यम् ; अत्रोच्यते- नायं दोषः, आधिकारिकमण्डलस्थो-
तेः । आधिकारिको य: सवितृमण्डलादिषु विशेषायतने-
ष्ववस्थितः पर ईश्वरः, तदायत्तैव इयं स्वाराज्यप्राप्तिरु-
च्यते; यत्कारणम् अनन्तरम् 'आप्नोति मनसस्पतिम् '
इत्याह ; यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नो-
तीत्येतदुक्तं भवति तदनुसारेणैव च अनन्तरम् ' वाक्पति-
चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः' च भवति इत्याह । एवम-
न्यत्रापि यथासंभवं नित्यसिद्धेश्वरायत्तमेव इतरेषामैश्वर्य
योजयितव्यम् ॥
 
विकारावर्ति च तथा हि
स्थितिमाह ॥ १९ ॥
 
s. w. III 20a