Proofing

This page has not been fully proofread.

सू. १६.]
 
चतुर्थोऽध्यायः ।
 
८५७
 
संभवति । यत्तु आत्ममनमोर्भेदानुपपत्तेः अनेकशरीरयोगा-
संभव इति-- नैष दोषः ; एकमनोनुवर्तीनि समनस्कान्येवा-
पराणि शरीराणि सत्यसंकल्पत्वात् स्रक्ष्यति ; सृष्टेषु च तेषु
उपाधिभेदात् आत्मनोऽपि भेदेनाधिष्ठातृत्वं योक्ष्यते; एषैव
च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया ।
 
कथं पुनः मुक्तम्य अनेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपग-
म्यते, यावता ' तत्केन कं विजानीयात् ' ' न तु तद्वितीय-
मस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ' ' सलिल एको द्रष्टा-
द्वैतो भवति' इति च एवजातीयका श्रुतिः विशेषविज्ञानं
वारयति - इत्यत उत्तरं पठति-
 
स्वाप्ययसंपत्त्योरन्यतरापेक्ष-
माविष्कृतं हि ॥ १६ ॥
 
स्वाप्ययः सुषुप्तम्, 'स्वमपीतो भवति तस्मादेनं स्वपिती -
त्याचक्षते' इति श्रुतेः; संपत्तिः कैवल्यम्, 'ब्रह्मैव सन्त्र -
ह्याप्येति' इति श्रुतेः; तयोरन्यतरामवस्थामपेक्ष्य एतत् वि
शेषसंज्ञाभाववचनम् - क्वचित् सुषुप्तावस्थामपेक्ष्योच्यते,
कचित्कैवल्यावस्थाम् । कथमवगम्यते ? यतस्तत्रैव एतदधि-
कारवशात् आविष्कृतम् ' एतेभ्यो भूतेभ्यः समुत्थाय
तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीति ' ' यत्र त्वस्य सर्व-