2026-05-06 05:22:12 by ambuda-bot
This page has not been fully proofread.
सू. १३.]
चतुर्थोऽध्यायः ।
८५५
जैमिनिस्त्वाचार्य: मनोवत् शरीरस्यापि सेन्द्रियस्य भावं
मुक्तं प्रति मन्यते ; यत: ' स एकधा भवति त्रिधा भवति '
इत्यादिना अनेकधाभावविकल्पमामनन्ति । न हि अनेक -
विधता विना शरीरभेदेन आञ्जसी स्यात् । यद्यपि निर्गुणा-
यां भूमविद्यायाम् अयमनेकधाभावविकल्पः पठ्यते, तथापि
विद्यमानमेवेदं सगुणावस्थायाम् ऐश्वर्य भूमविद्यास्तुतये सं-
कीर्त्यत इत्यतः सगुणविद्याफलभावेन उपतिष्ठत इति ॥
उच्यते-
----
द्वादशाहवदुभयविधं बादरा-
यणोऽतः ॥ १२ ॥
बादरायणः पुनराचार्य: अत एव उभयलिङ्गश्रुतिदर्श-
नात् उभयविधत्वं साधु मन्यते — यदा सशरीरतां संकल्प-
यति तदा सशरीरो भवति, यदा तु अशरीरतां तदा अश-
रीर इति; सत्यसंकल्पत्वात् संकल्पवैचित्र्याच्च । द्वादशा-
हवत् — यथा द्वादशाह: सत्रम् अहीनश्च भवति, उभयलि-
ङ्गश्रुतिदर्शनात् - एवमिदमपीति ॥
-----
'
तन्वभावे संध्यवदुपपत्तेः ॥ १३ ॥
यदा तनोः सेन्द्रियस्थ शरीरस्य अभाव:, तदा, यथा
संध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वपि उपलब्धिमा -