2026-05-06 05:22:12 by ambuda-bot
This page has not been fully proofread.
८५४
सूत्रभाष्ये
अत एव चानन्याधिपतिः ॥ ९ ॥
[पा. ४.
अत एव च अवन्ध्यसंकल्पत्वात् अनन्याधिपतिर्विद्वा-
भवति नास्यान्योऽधिपतिर्भवतीत्यर्थः । न हि प्राकृतो-
Sपि संकल्पयन् अन्यस्वामिकत्वमात्मनः सत्यां गतौ संकल्प-
यति । श्रुतिश्चैतद्दर्शयति- 'अथ य इहात्मानमनुविद्य
व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो
भवति' इति ॥
अभावं बादरिराह ह्येवम् ॥ १० ॥
'संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यतः श्रुतेः मन-
स्तावत्संकल्पसाधनं सिद्धम् । शरीरेन्द्रियाणि पुनः प्राप्तैश्व-
र्यस्य विदुषः सन्ति, न वा सन्ति - इति
५. अभावाधि-
करणम् ।
----
समीक्ष्यते । तत्र बाद रिस्तावदाचार्य: श-
रीरस्येन्द्रियाणां च अभाव महीयमानस्य विदुषो मन्यते ;
कस्मात् ? एवं हि आह आम्नाय :-
'मनसैतान्कामान्पश्य-
रमते ' ' य एते ब्रह्मलोके ' इति ; यदि मनसा शरीरेन्द्रि-
यैश्व विहरेत, मनसेति विशेषणं न स्यात्; तस्मादभावः
शरीरेन्द्रियाणां मोक्षे ॥
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥