2026-05-06 05:22:12 by ambuda-bot
This page has not been fully proofread.
सू. ८.]
चतुर्थोऽध्यायः ।
८५३
संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ' इत्यादि । तत्र संशयः
४. संकल्पाधि-
किं संकल्प एव केवल: पित्रादिसमु-
करणम् । स्थाने हेतु:, उत निमित्तान्तरसहित इति ।
तव सत्यपि ' संकल्पादेव' इति श्रवणे लोकवत् निमित्तान्त-
रापेक्षता युक्ता ; यथा लोके अस्मदादीनां संकल्पात् गमना-
दिभ्यश्च हेतुभ्यः पित्रादिसंपत्तिर्भवति एवं मुक्तस्यापि स्यात् ;
एवं दृष्टविपरीतं न कल्पितं भविष्यति ; ' संकल्पादेव' इति
तु राज्ञ इव संकल्पितार्थसिद्धिकरी साधनान्तरसामग्रीं सुल-
भामपेक्ष्य योक्ष्यते ; न च संकल्पमात्रसमुत्थाना: पित्रादयः
मनोरथविजृम्भितवत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं
पर्याप्ताः स्युरिति । एवं प्राप्ते, ब्रूमः -- संकल्पादेव तु केव-
लात् पित्रादिसमुत्थानमिति ; कुत: ? तच्छ्रुतेः ; 'संकल्पादे-
वास्य पितरः समुत्तिष्ठन्ति' इत्यादिका हि श्रुतिर्निमित्तान्त-
रापेक्षायां पीडयेत; निमित्तान्तरमपि तु यदि संकल्पानुवि-
धाय्येव स्यात्, भवतु ; न तु प्रयत्नान्तरसंपाद्यं निमित्तान्त-
रमिष्यते, प्राक्संपत्तेः वन्ध्यसंकल्पत्वप्रसङ्गात् ; न च श्रु
त्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते ; संकल्पब-
लादेव च एषां यावत्प्रयोजनं स्थैर्योपपत्तिः, प्राकृत संकल्प-
विलक्षणत्वान्मुक्तसंकल्पस्य ॥
।