2026-05-06 05:22:12 by ambuda-bot
This page has not been fully proofread.
८५२
सूत्रभाष्ये
[पा. ४.
;
वजातीयका अनुगृहीता भविष्यति ; सत्यकामत्वादयस्तु य-
द्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते - सत्या: कामा अस्येति,
तथापि उपाधिसंबन्धाधीनत्वात्तेषां न चैतन्यवत् स्वरूपत्व-
संभवः, अनेकाकारत्वप्रतिषेधात् प्रतिषिद्धं हि ब्रह्मणोऽने-
काकारत्वम् 'न स्थानतोऽपि परस्योभयलिङ्गम्' इत्यत्र ।
अत एव च जक्षणादिसंकीर्तनमपि दुःखाभावमात्राभिप्रा-
यं स्तुत्यर्थम् ' आत्मरतिः' इत्यादिवत् । न हि मुख्यान्येव
रतिक्रीडामिथुनानि आत्मनिमित्तानि शक्यन्ते वर्णयि-
तुम, द्वितीयविषयत्वात्तेषाम् । तस्मान्निरस्ताशेषप्रपञ्चेन प्र-
सन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इत्यौडुलोम-
राचार्यो मन्यते ॥
एवमप्युपन्यासात्पूर्वभावादविरोधं
बादरायणः ॥ ७ ॥
एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यव -
हारापेक्षया पूर्वस्यापि उपन्यासादिभ्योऽवगतस्य ब्राह्मस्य
ऐश्वर्यरूपस्य अप्रत्याख्यानादविरोधं बादरायण आचार्यो
मन्यते ॥
संकल्पादेव तु तच्छ्रुतेः ॥ ८ ॥
हार्दविद्यायां श्रूयते— ' स यदि पितृलोककामो भवति