2026-05-06 05:22:11 by ambuda-bot
This page has not been fully proofread.
सू. ६.]
चतुर्थोऽध्यायः ।
,
८५१
स्थितमेतत् ' स्वेन रूपेण' इत्यत्र - आत्ममात्ररूपेणाभि-
निष्पद्यते, न आगन्तुकेनापररूपेणेति । अधुना तु तद्विशेष-
३. ब्राह्माधि- बुभुत्सायामभिधीयते - स्वम् अस्य रूपं
करणम् । ब्राह्मम् अपहतपाप्मत्वादिसत्यसंकल्पत्वा-
वसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेणाभिनि-
पद्यत इति जैमिनिराचार्यो मन्यते ; कुतः ? उपन्यासादि-
भ्यस्तथात्वावगमात् ; तथा हि य आत्मापहतपाप्मा
इत्यादिना 'सत्यकामः सत्यसंकल्प:' इत्येवमन्तेन उपन्यासेन
एवमात्मकतामात्मनो बोधयति ; तथा स तत्र पर्येति ज-
क्षत्क्रीडन्रममाणः' इति ऐश्वर्यरूपमावेदयति, ' तस्य सर्वेषु
लोकेषु कामचारो भवति' इति च ' सर्वज्ञः सर्वेश्वरः '
इत्यादिव्यपदेशाश्च एवमुपपन्ना भविष्यन्तीति ॥
;
चितितन्मात्रेण तदात्मकत्वा-
दित्यौडुलोमः ॥ ६ ॥
"
यद्यपि अपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते,
तथापि शब्दविकल्पजा एव एते पाप्मादिनिवृत्तिमात्रं हि
तत्र गम्यते ; चैतन्यमेव तु अस्य आत्मनः स्वरूपमिति त-
न्मात्रेण स्वरूपेण अभिनिष्पत्तिर्युक्ता ; तथा च श्रुतिः ' एवं
वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' इत्ये-
S. W. III. 20