Proofing

This page has not been fully proofread.

८५०
 
सूत्रभाष्ये
 
अविभागेन दृष्टत्वात् ॥ ४ ॥
 
[पा. ४.
 
परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते य:, स
किं परस्मादात्मन: पृथगेव भवति, उत अविभागेनैवाव-
 
२.
 
करणम् ।
 
,
 
अविभागाधि- तिष्ठत इति वीक्षायाम्, ' स तत्र पर्येति'
इत्यधिकरणाधिकर्तव्यनिर्देशात् 'ज्योति-
रुपसंपद्य' इति च कर्तृकर्मनिर्देशात् भेदेनैवावस्थान-
मिति यथ मतिः, तं व्युत्पादयति-अविभक्त एव परेण
आत्मना मुक्तोऽवतिष्ठते; कुत: ? दृष्टत्वात् ; तथा हि-
'तत्त्वमसि' ' अहं ब्रह्मास्मि' ' यत्र नान्यत्पश्यति' ' न तु
तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इत्येवमादीनि
वाक्यान्यविभागेनैव परमात्मानं दर्शयन्ति ; यथादर्शनमेव च
फलं युक्तम्, तत्क्रतुन्यायात् ; ' यथोदकं शुद्धे शुद्धमासिक्तं
तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम '
इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्या-
न्यविभागमेव दर्शयन्ति ; नदीसमुद्रादिनिदर्शनानि च । भेद-
निर्देशस्तु अभेदेऽप्युपचर्यते ' स भगवः कस्मिन्प्रतिष्ठित
इति स्वे महिम्न' इति, 'आत्मरतिरात्मक्रीड: ' इति च एव-
मादिदर्शनात् ॥
 
ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥