2026-05-06 05:22:11 by ambuda-bot
This page has not been fully proofread.
सू. ३.]
चतुर्थोऽध्यायः ।
८४९
सन्तं न प्रियाप्रिये स्पृशत: ' इति च उपन्यस्य, 'स्वेन रूपे -
णाभिनिष्पद्यते स उत्तमः पुरुषः' इति च उपसंहरति ;
तथा आख्यायिकोपक्रमेऽपि 'य आत्मापहतपाप्मा' इत्यादि
मुक्तात्मविषयमेव प्रतिज्ञानम् । फलत्वप्रसिद्धिरपि मोक्षस्य
बन्धनिवृत्तिमात्रापेक्षा, न अपूर्वोपजनापेक्षा । यदपि अभि-
निष्पद्यत इत्युत्पत्तिपर्यायत्वम्, तदपि न अपूर्वावस्थापेक्षम-
यथा रोगनिवृत्तौ अरोगोऽभिनिष्पद्यत इति, तद्वत् । तम्मा-
ददोषः ॥
आत्मा प्रकरणात् ॥ ३ ॥
कथं पुनर्मुक्त इत्युच्यते, यावता 'परं ज्योतिरुपसंपद्य
इति कार्यगोचरमेव एनं श्रावयति, ज्योतिः शब्दस्य भौतिके
ज्योतिषि रूढत्वात् न च अनतिवृत्तो विकारविषयात् क-
चिन्मुक्तो भवितुमर्हति विकारस्य आर्तत्वप्रसिद्धेरिति नैष
'
---
दोष:, यत: आत्मैवात्र ज्योतिः शब्देन आवेद्यते, प्रकरणात् ;
"
य आत्मापहतपाप्मा विजरो विमृत्यु: ' इति प्रकृते परस्मि -
नात्मनि न अकस्माद्भौतिकं ज्योतिः शक्यं ग्रहीतुम्, प्रकृत-
हानाप्रकृतप्रक्रियाप्रसङ्गात् ; ज्योतिः शब्दस्तु आत्मन्यपि दृश्य-
ते - ' तद्देवा ज्योतिषां ज्योति:' इति । प्रपञ्चितं च एतत्
' ज्योतिर्दर्शनात्' इत्यत्र ॥