Proofing

This page has not been fully proofread.

८४८
 
सूत्रभाष्ये
 
[91. 8.
 
कुत: ? 'स्वेन रूपेणाभिनिष्पद्यते इति स्वशब्दात्; अ-
 
१. संपद्या-
 
विर्भावा-
 
धिकरणम् ।
 
न्यथा हि स्वशब्देन विशेषणमनवक्लप्तं
 
स्यात् । ननु, आत्मीयाभिप्राय: स्वशब्दो
भविष्यति न तस्यावचनीयत्वात् येनैव
- न,
 
;
 
हि केनचिद्रूपेणाभिनिष्पद्यते, तस्यैव आत्मीयत्वोपपत्तेः, स्त्रे-
नेति विशेषणमनर्थकं स्यात्; आत्मवचनतायां तु अर्थवत् -
केवलेनैव आत्मरूपेणाभिनिष्पद्यते, न आगन्तुकेनापररूपे-
णापीति ॥
 
कः पुनर्विशेष: पूर्वावस्थासु, इह च स्वरूपानपायसाम्ये
सतीत्यत आह-
 
मुक्तः प्रतिज्ञानात् ॥ २ ॥
 
योऽत्र अभिनिष्पद्यत इत्युक्तः, स सर्वबन्धविनिर्मुक्त:
शुद्धेनैव आत्मना अवतिष्ठते; पूर्वत्र तु अन्धो भवत्यपि
रोदितीव विनाशमेवापीतो भवति - इति च अवस्थावयकलु-
षितेन आत्मना - इत्ययं विशेषः । कथं पुनरवगम्यते -मु-
क्तोऽयमिदानीं भवतीति ? प्रतिज्ञानादित्याह । तथा हि-
" एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' इति अवस्थात्रयदोष-
विहीनम् आत्मानम् व्याख्येयत्वेन प्रतिज्ञाय, ' अशरीरं वाव