2026-05-06 05:22:10 by ambuda-bot
This page has not been fully proofread.
चतुर्थः पादः ॥
वमेवैष संप्रसादोऽस्माच्छरीरात्स-
'ए
मुत्थाय परं ज्योतिरुपसंपद्य स्वेन
रूपेणाभिनिष्पद्यते' इति श्रूयते । तत्र
संशय:- किं देवलोकाद्युपभोगस्था-
नेष्विव आगन्तुकेन केनचिद्विशेषेण
अभिनिष्पद्यते, आहोस्वित् आत्ममा-
त्रेणेति । किं तावत्प्राप्तम् ? स्थानान्तरेष्विव आगन्तुकेन
केनचिद्रूपेण अभिनिष्पत्तिः स्यात्, मोक्षस्यापि फलवप्र-
सिद्धेः, अभिनिष्पद्यत इति च उत्पत्तिपर्यायत्वात् ; स्वरूप-
मात्रेण चेदभिनिष्पत्ति:, पूर्वावस्थासु स्वरूपानपायात् वि-
भाव्येत; तस्मात् विशेषेण केनचिदभिनिष्पद्यत इति । एवं
प्राप्ते, ब्रूमः -
संपद्याविर्भावः स्वेन शब्दात् ॥ १ ॥
केवलेनैव आत्मना आविर्भवति, न धर्मान्तरेणेति ;