2026-05-06 05:22:09 by ambuda-bot
This page has not been fully proofread.
सू. १६. ]
चतुर्थोऽध्यायः ।
८४३
यत्र एवम् आहत्यवाद उपलभ्यते ; तदभावे तु औत्सर्गिकेण
तत्क्रतुन्यायेन ब्रह्मऋतूनामेव तत्प्राप्तिः, न इतरेषाम् - इति
गम्यते ॥
विशेषं च दर्शयति ॥ १६ ॥
नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात् फलविशेषम्
उत्तरस्मिन्नुत्तरस्मिन् उपासने दर्शयति — ' यावन्नाम्नो गतं
तत्रास्य यथाकामचारो भवति ' 'वाग्वाव नाम्नो भूयसी'
'यावद्वाचो गतं तत्रास्य यथाकामचारो भवति' ' मनो
वाव वाचो भूय:' इत्यादिना । स च अयं फलविशेष: प्रती-
कतन्त्रत्वादुपासनानाम् उपपद्यते । ब्रह्मतन्त्रत्वे तु ब्रह्मणोऽवि-
शिष्टत्वात् कथं फलविशेषः स्यात् । तस्मात् न प्रतीकाल -
म्बनानाम् इतरैस्तुल्यफलत्वमिति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव-
त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य तृतीयः पादः ॥